Table of Contents

<<3-3-133 —- 3-3-135>>

3-3-134 आशंसावचने लिङ्

प्रथमावृत्तिः

TBD.

काशिका

आशंसा येन उच्यते तदाशंसावचनम्। तस्मिन्नुपपदे धातोर् लिङ् प्रत्ययो भवति भूतवच् च इत्यस्य अयम् अपवादः। उपाध्यायश्चेदागच्छेत्, आशंसे युक्तो ऽधीयीय। आशंसे अवकल्पये युक्तो ऽधीयीय। आशंसे क्षिप्रम् अधीयीय।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

616 #आशंसावचने लिङ्। आशंसायाः प्राप्तीच्छाया भूते असंभवाद्भविष्यतीति लभ्यत इति मत्वाह– भविष्यतीति। `आशंसायां भूतवच्चे'त्यस्यापवादः। तदाह– नतु भूतवदिति। गुरुश्चेदिति। गुरुरुपेयाच्चेत् क्षिप्रमधीयीयेत्याशंसे इत्यन्वयः। क्षिप्रयोगेऽपि परत्वाल्लिङेव, नतु लृडिति भावः।

तत्त्वबोधिनी

507 आशंसावचने। भूतवद्वर्तमानवत्प्रत्ययोरपवादः। न भूतवदिति। न वर्तमानवदित्यपि बोध्यम्। आशंसेऽधीयीयेति। एवं प्रार्थये अधीयीय,इच्छामो वयवमधीयीमहीत्यादि ज्ञेयम्। क्षिप्रमिति। क्षिप्रयोगेऽपि परत्वाल्लिङिति भावः।

Satishji's सूत्र-सूचिः

TBD.