TBD.
आशंसायाम् इत् येव। क्षिप्रवचने उपपदे आशंसायां गम्यमानायां धातोः लृट् प्रत्ययो भवति। भूतवच् च इत्यस्य अयम् अपवादः। उपाध्यायश्चेत् क्षिप्रम् आगमिष्यति, क्षिप्रं व्याकरणम् अध्येष्यामहे। वचनग्रहणं पर्यायार्थम्। क्षिप्रम्, शीघ्रम्, आशु, त्वरितम्, अध्येष्यामहे। न इति वक्तव्ये लृड्ग्रहणं लुटो ऽपि विषये यथा स्यात्। श्वः क्षिप्रम् अध्येष्यमहे।
TBD.
–
615 क्षिप्रवचने लृट्। वचनग्रहणात्क्षिप्रपर्याये इति लभ्यते। तदाह- - क्षिप्रपर्याये इति। पूर्वविषये इति। आशंसायामित्यर्थः। `आशंसायां भूतवच्चे'त्यस्यापवादः। ननु `क्षिप्रवचनेने'त्येतावतैव आशंसायां क्षिप्रपर्याये उपपदे भविष्यति न भूतवन्न वर्तमानवदिति लाभाल्लृङ्गहणमनर्थकमित्यत आह– नेति वक्तव्ये इति। `क्षिप्रवचने ने'त्युक्ते `सामान्यातिदेशे विशेषानतिदेशः इनि न्यायेन भविष्यत्सामान्ये विहितस्य लृट एव निषेधः स्यान्नतु लुटः, तस्यानद्यतनभविष्यद्विशेषविधानात्। शीघ्रं वप्स्याम इति। अनद्यतनत्वद्योताय \उfffदाश्शब्दः। अत्र न लुडिति भावः।
506 क्षिप्रवचने। वचनग्रहणं स्वरूपग्रहमनिरासार्थम्। तदाह– क्षिप्रपर्याय इति। पूर्वविषय इति।आशंसायामित्यर्थः। तेन पूर्वलकारापवादोऽयम्।
TBD.