Table of Contents

<<3-3-126 —- 3-3-128>>

3-3-127 कर्तृकर्मणोश् च भूक्र्ञोः

प्रथमावृत्तिः

TBD.

काशिका

भवतेः करोतेश्च धातोः यथासङ्ख्यं कर्तरि कर्मणि च उपपदे, चकारादीषदादिषु च खल् प्रत्ययो भवति। ईषदाढ्यम्भवं भवता। दुराढ्यम्भवम्। ईषदाढ्यङ्करः। स्वाढ्यङ्करो देवदत्तो भवता। कर्तृकर्मणोश्च्व्यर्थयोरिति वक्तव्यम्। इह मा भूत्, स्वाढ्येन भूयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1581 कर्तृकर्मणोः। चकारः संनियोगार्थः। यदा कर्तृकर्मणोरीषदादीनां च युगपत्प्रयोगस्तदैव प्रत्ययो यथा स्यात्। न च कर्तृकर्मणोः प्रत्ययार्थत्वमेवास्तु न तूपपदत्वमिति वाच्यम्, ईषदादीनामेवोपपदत्वे तु खलः खित्त्वस्य वैयथ्र्यापत्तेः। मुमर्थं हि तत्। मुम् चानव्यस्य विधीयते। तस्मात्कर्तृकर्मणोरिति उपपदत्वमेव। तदेतदाह– ईषदादिषु चेति। कर्तृकर्मणी द्वे, भूकृञौ च द्वौ, तयोर्यथासङ्ख्यं प्राप्तम्, स्वीकृतं च काशिकाकृता, कन्यासकारहरदत्तादिभिश्च, प्राचापि तथैवोक्तं, तद्वयाख्यातृभिश्चानुमोदितं, तत्सर्वं नादर्तव्यम्,यथासङ्ख्यसूत्रस्थभाष्यविरोधादिति ध्वनयन्नाह– यथासङ्ख्यं नेष्यत इति। ननूपपदयोर्मध्ये पूर्वापरीभावव्यवस्था न सिध्यति, भूकृञोरवयवहितत्वं क्रतृकर्मणोरेवेष्यते न त्वीषदादीनाम्। एवं च कथमत्रेष्टव्यवस्था सिध्यतीति चेदत्राहुः– बहुलग्रहणानुवृत्त्या दुराढ\उfffद्म्भव इति भाष्योदाहरणाच्चेष्टव्यवस्था सिध्यतीति। तदेतदभिप्रेत्याह— कर्तृकर्मणि चेति। भवतेः कर्तर्युदाहरति— अनाढ\उfffदेनाढ\उfffदेनेति। कर्मणि त्वनाढ\उfffद् आढ\उfffदो भूयते इति विग्रहः। भाव्यते इति तदर्थः। एवमग्रेऽपि विग्रहद्वयमुन्नेयम्। अनाढ\उfffदेनाढ\उfffदेन स्वयमेव क्रियते, अनाढ\उfffद् आढ्यः क्रयत इति।

Satishji's सूत्र-सूचिः

TBD.