Table of Contents

<<3-3-125 —- 3-3-127>>

3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्

प्रथमावृत्तिः

TBD.

काशिका

करणाधिकरणयोः इति निवृत्तम्. ईषत् दुस् सु इत्येतेषु उपपदेषु कृच्छ्राकृच्छ्रार्थेषु धतोः खल् प्रत्ययो भवति. कृच्छ्रं दुःखम्, तद् दुरो विशेषणम्. अकृच्छ्रं सुखम्, तदितरयोः विशेषनम्, सम्भवात्. ईषत्करो भवता कटः. दुष्करः. सुकरः. ईषद्भोजः. दुर्भोजः. सुभोजः. ईषदादिषु इति किम्? कृच्छ्रेण कार्यः कटः. कृच्छ्राकृच्छ्रार्थेषु इति किम्? ईषत्कार्यः. लकारः स्वरार्थः. खित्करणम् उत्तरक्र मुमर्थम्.

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

879 करणाधिकरणयोरिति निवृत्तम्. एषु दुःखसुखार्थेषूपपदेषु खल् तयोरेवेति भावे कर्मणि च. कृच्छ्रे - दुष्करः कटो भवता. अकृच्छ्रे - ईषत्करः. सुकरः..

बालमनोरमा

तत्त्वबोधिनी

1579 ईषद्दुःसुषु। इह सामान्योक्तावपि योग्यताबलाद्विशेषणस्य विषयविभागो लभ्यते। दुरिति कृच्छ्रार्थे,इतरौ त्वकृच्छ्रार्थे।तदेतद्दर्शयति–कृच्छ्रे दुष्कर इत्यादिना। भवतेति। `न लोके'ति षष्ठीनिषेधात्कर्तरि तृतीया। कच्छ्रेत्यादि किम् ?। ईषत्कार्यम्। स्वल्पं कार्यमित्यर्थः। खलिति। लकारः स्वरार्थः, खित्करणं तूत्तरत्र मुमर्थम्। निमिमीति। `मीनातिमिनोतिदीङां ल्यपि च ' `विभाषा लीयतेः इति प्राप्तं निषिध्यते। निमय इत्यादि। `एरच्। उपसर्गात्खल्घञोः। `लभेश्चे'त्यनेनैव सिद्धे नियमार्थमिदमित्याह–उपसर्गादेवति।

Satishji's सूत्र-सूचिः

Video

वृत्तिः एषु दुःखसुखार्थेषूपपदेषु खल् । The affix खल् is used following a verbal root when in composition with either ‘ईषत्’ or ‘दुर्’/'दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
Note: करणाधिकरणयोरिति निवृत्तम् । The अनुवृत्ति: of करणाधिकरणयो: from 3-3-117 करणाधिकरणयोश्च does not come in to this सूत्रम्।
Note: तयोरेवेति भावे कर्मणि च । As per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘खल्’ – as well as any other affix in the meaning of ‘खल्’ – is only used to denote the action (भावः) or the object (कर्म)। A term ending in the affix खल् used कर्मणि is an adjective whose gender/number is dictated by the term that it qualifies. For example – दुष्करमध्ययनं मया। सुलभा भक्तिर्भवता। दुष्प्रापो योगोऽसंयतात्मना। A term ending in the affix खल् used भावे is always used in the neuter singular. For example – दुरासमिह त्वया।
Note: दुरिति कृच्छ्रार्थे, इतरौ त्वकृच्छ्रार्थे। ‘दुर्’/'दुस्’ is used कृच्छ्रार्थे (in the sense of ‘difficulty’) while the other two ‘ईषत्’ and ‘सु’ are used अकृच्छ्रार्थे (in the sense of ‘ease.’)
Note: ‘कृच्छ्राकृच्छ्रार्थेषु’ इति किम्? ईषत्कार्यम् – A small job. Since there is no sense of ‘difficulty’ or ‘ease’ we cannot use the affix खल् here.

उदाहरणम् – सुखेन लभ्यत इति सुलभ: derived from the verbal root √लभ् (डुलभँष् प्राप्तौ १. ११३०) in composition with ‘सु’। (ref. गीता 8-14)

सु + लभ् + खल् 3-3-126
Note: In the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्, the term ईषद्दुःसुषु ends in the seventh (locative) case. Hence ‘सु’ gets the उपपद-सञ्ज्ञा here by 3-1-92.
= सु + लभ् + अ 1-3-3, 1-3-8, 1-3-9
= सु + लभ

Now we form the compound between ‘सु’ (which is the उपपदम्) and ‘लभ’ using the सूत्रम् 2-2-19. Note: Here ‘सु’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43. In the compound, ‘सु’ is placed in the prior position as per 2-2-30.
= सुलभ । ‘सुलभ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – दु:खेन प्राप्यत इति दुष्प्राप: derived from the verbal root √आप् (आपॢँ व्याप्तौ ५. १६) – preceded by the उपसर्ग: ‘प्र’ – in composition with ‘दुर्’/'दुस्’। (ref. गीता 6-36)

दुर्/दुस् + प्र आप् + खल् 3-3-126
Note: In the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्, the term ईषद्दुःसुषु ends in the seventh (locative) case. Hence ‘दुर्/दुस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92.
= दुर्/दुस् + प्र आप् + अ 1-3-3, 1-3-8, 1-3-9
= दुर्/दुस् + प्राप 6-1-101

Now we form the compound between ‘दुर्/दुस्’ (which is the उपपदम्) and ‘प्राप’ using the सूत्रम् 2-2-19. Note: Here ‘दुर्/दुस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43. In the compound, ‘दुर्/दुस्’ is placed in the prior position as per 2-2-30. ‘दुर्/दुस् + प्राप’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46.
= दुर् + प्राप 8-2-66, 1-3-2, 1-3-9
= दु: + प्राप 8-3-15

Example continued under 8-3-41