Table of Contents

<<3-3-124 —- 3-3-126>>

3-3-125 खनो घ च

प्रथमावृत्तिः

TBD.

काशिका

खनतेः धातोः करणाधिकरणयोः घः प्रत्ययो भवति। चकारात् घञ् च। आखनः, आखानः। डो वक्तव्यः। आखः। डरो वक्तव्यः। आखरः। इको वक्तव्यः। आखनिकः। इकवको वक्तव्यः। आखनिकवकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1578 खनो। घित्ककरणमिति। `आखन'इत्यादौ `चजो'रिति कुत्वस्य प्रसक्त्यभावादिति भावः। भगः। पदमिति। ननु पदमित्यत्र घस्य किं प्रयोजनमिति चेदत्राहुः– `करणाधिकरणयोः' `पुंसि संज्ञाया'मिति यदि घः स्यात्तदा `पद'मिति नपुंसकं न स्यात्, अनेन चेद्धो भवति तदा त्विष्टसिद्धिरिति। एते इति। आखनादयः षडित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.