TBD.
विभाषा इति निवृत्तम्। आक्रोशः शपनम्। आक्रोशे गम्यमाने नञि उपपदे धातोः अनिः प्रत्ययो भवति। क्तिन्नादीनाम् अपवादः। अकरणिस्ते वृषल भूयात्। आक्रोशे इति किम्? अकृतिस्तस्य कटस्य। नञि इति किम्? मृतिस्ते वृषल भूयात्।
TBD.
–
–
1570 आक्रोशे। आक्रोशःऋ-शापः। नपुंसके भावे क्तः। ननु `तयोरेव कृत्यक्तखलर्थाः' इति लिङ्गत्रयसाधारण्येन भावकर्मणोः कृत्यादिविधानात्तेनैव नपुंसके भावे क्तः सिध्यति, किमनेन पुनर्विधानेनेति चेत्। अत्राहुः– `भूते' इत्यधिकृत्य `निष्ठा' इति सूत्रेण विहितस्य क्तस्य भावोऽर्थः `तयोरेवे'ति सूत्रेण विहितः, अनेन तु कालसामान्ये नपुंसके भावे क्तो विधीयते। एवं च स्वविषये परत्वाद्धञजपां बाधक इति परिशेषादेवैषां पुंविषयत्वं सिध्यति। किंच इह `भावे चाऽकर्मकेभ्य' इत्यस्याऽसन्निधानात्सकर्मकेभ्योऽप्ययं भवति, घञादिवत्। `गतं तिरिश्चीनमनूरुसारथेः' इत्यादिदर्शनात्। तथा च नास्त्यत्र शङ्केति। नन्वेवं कृद्योगे कर्मणि द्वितीया स्यात्, कृद्योगलक्षणषष्ठ\उfffदा `न लोके'ति निषेधात्। एवं च `घटं कृतं' वृक्षं भिन्न'मित्यादि प्रसज्येत। `अनूरुसारथे'रित्यत्र तु कर्तरि तृतीया नापद्यते, कारकदृष्ट\उfffदा निषेधेऽपि शेषत्विवक्षया षष्ठीति समाधानसंभवादिति चेन्मैवम्। नपुंसके भावे क्तस्य योगे षष्ठ\उfffदा उपसङ्ख्यातत्वात्कर्मण द्वितीयया अभावात्। शेषत्बविवक्षामाश्रित्य वार्तिकमिदं प्रत्याख्यातमाकरे इति चेत्तर्हि तत्प्रामाण्यात्प्रायेण शेषत्वविवक्ष#ऐवेत्यस्तु वार्तिकमिदं प्रत्याख्यातमाकरे इति चेत्तर्ह तत्प्रामाण्यात्प्रायेण शेषत्वविवक्षैवेत्यस्तु। तथा च `घटं कृत'मित्यादि तु न प्रसज्यत एव। क्वचित्तु द्वितीयाऽपि दृश्यते `भ्रान्तं देशमनेकदुर्गविषम'मि[ती]ति दिक्।
TBD.