Table of Contents

<<3-3-110 —- 3-3-112>>

3-3-111 पर्यायार्हर्णौत्पत्तिषु ण्वुच्

प्रथमावृत्तिः

TBD.

काशिका

पर्यायः परिपाटीक्रमः। अर्हणमर्हः, तद्योग्यता। ऋणं तत् यत् परस्य धार्यते। उत्पत्तिः जन्म। एतेष्वर्थेषु धातोः ण्वुच् प्रत्ययो भवति। क्तिन्नादीनाम् अपवादः। पर्याये तावत् भवतः शायिका। भवतो ऽग्रग्रासिका। अर्हे अर्हति भवानिक्षुभक्षिकाम्। ऋणे इक्षुभक्षिकां मे धरयसि। ओदनभोजिकाम्। पयःपायिकाम्। उत्पत्तौ इक्षुभक्षिका मे उदपादि। ओदनभोजिका। पयःपायिका। विभाषा इत्येव, चिकीर्षा उत्पद्यते। ण्वुलि प्रकृते प्रत्ययान्तरकरनं स्वरार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1569 परिपाटीति। पट गतौ परिपूर्वः। `इणजादिभ्यः' इतीण्। `कृदिकारा'दिति ङीष्।

Satishji's सूत्र-सूचिः

TBD.