Table of Contents

<<3-2-95 —- 3-2-97>>

3-2-96 सहे च

प्रथमावृत्तिः

TBD.

काशिका

सहशब्दे च उपपदे युधिकृञोः धात्वोः क्वनिप् प्रत्ययो भवति। असत्त्ववाचित्वान् न उपपदं कर्मणा विशेष्यते। सहयुध्वा। सहकृत्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

813 कर्मणीति निवृत्तम्. सह योधितवान् सहयुध्वा. सहकृत्वा..

बालमनोरमा

816 सहे च। सहशब्दे उपपदे युधिकृञ्भ्यां क्वनिबित्यर्थः।

तत्त्वबोधिनी

673 इदमपि सूत्रद्वयं `दृशेः क्वनि' बितिवन्नियमार्थमिति न्याय्यम्। वस्तुतस्तु दृशिग्रहणेन निर्वाहस्याऽगतिकत्वादियं त्रिसूत्री विधात्रीत्यपि सुवचम्। प्राचां ग्रन्थास्त्विहोदासीना एवेति शब्दकौस्तुभे स्थितम्।

Satishji's सूत्र-सूचिः

TBD.