Table of Contents

<<3-2-91 —- 3-2-93>>

3-2-92 कर्मण्यग्न्याख्यायाम्

प्रथमावृत्तिः

TBD.

काशिका

चेः कर्मणि इति वर्तते। कर्मणि उपपदे चिनोतेः कर्मण्येव कारके क्विप् प्रत्ययो भवति अग्न्याख्यायां, धातूपपदप्रत्ययसमुदायेन चेदग्न्याख्या गम्यते। श्येन इव चीयते श्येनचित्। कङ्कचित्। आख्याग्रहणं रूढिसम्प्रत्ययार्थम्। अग्न्यर्थो हि इष्टकाचय उच्यते श्येनचितिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

812 कर्मण्यग्न्याख्यायाम्। कर्मणीत्यनुवृत्तमुपपदसमर्पकम्। अत्रत्यं तु कर्मणीत्येतत्प्रत्ययार्थसमर्पकम्। तथा चाऽत्र कर्तरीति न सम्बध्यते। तदाह– कर्मण्युपपदे इत्यादि। चिनोतेरिति। भूतार्थादित्यपि बोध्यम्। श्येन इवेति। श्येनशब्दः श्येनसदृशे लाक्षणिक इति भावः। श्येनाकृतिक इति यावत्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.