Table of Contents

<<3-2-89 —- 3-2-91>>

3-2-90 सोमे सुञः

प्रथमावृत्तिः

TBD.

काशिका

कर्मणि इति वरते। सोमे कर्मणि उपपदे सुनोतेर् धातोः क्विप् प्रत्ययो भवति। सोमसुत्, सोमसुतौ, सोमसुतः। अयम् अपि नियमार्थ आरम्भः। चतुर्विधश्च अत्र नियमः इष्यते, धातुकालौपपदप्रत्ययविषयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

810 समो सुञः। सोमे कर्मण्युपपदे भूते सुनोतेः क्विबित्यर्थः। चतुर्विध इति। पूर्ववद्व्याख्येयम्। एवमिति। `अग्नौ चे'रित्युत्तरसूत्रेऽपि चतुर्विधो नियम इत्यर्थः।

तत्त्वबोधिनी

670 सोमे सुञः। इहापि चतुर्विधो नियम इति वृत्तिः। एवमुत्तरसूत्रेऽपि। तत्र भूतकालस्य क्विपि नियतत्वात्सोमं सुतवान् सोमसावः, अ\उfffद्ग्न चितवान् अग्निचाय इत्यण्न भवति। सुनोतेः सोम एव उपपदे नियतत्वाच्चिनोतेस्त्वग्नावेवोपपदे नियत्वात् सुरां सुतवान् सुरासुत्, इष्टकाश्रितवानिष्टकाचिदिति न भवति, किं तु सुरासावः इष्टकाचाय इत्यणेव भवति। सोमस्य सुनोतावेव धातोर्नियतत्वात्, अग्नेस्तु चिनोतावेव नियतत्वात्–सोमं क्रीतवान् सोमकीः, अ\उfffद्ग्न भृतवान् अग्निभृदिति क्वब्नि भवति, किं तुसोमक्रायः अग्निभार इत्यणेव भवति। भूत एव क्विपो नियतत्वात्सोमं सुनोति सोष्यति वेत्यर्थे क्विब्न भवति। तथा अ\उfffद्ग्न चिनोति चेष्यति वेत्यर्थे क्विबभावः, किंत्वणेव। कर्मणीनि। कुत्सितग्रहणमिति। एतच्च वार्तिकं पुनः कर्मग्रहणसामथ्र्याल्लभ्यते, यत्कर्म क्रियया संबध्यमानं कर्तृकुत्सामावहति तत्रेत्यर्थः। सोमादयश्च विक्रीयमाणाः शास्त्रे प्रतिषेधात्कुत्सावहाः। कुत्सितग्रहणान्नेह, -धान्यविक्रायः।

Satishji's सूत्र-सूचिः

TBD.