TBD.
कर्मणि इति वर्तते। तदसम्भवात् सुशब्दम् वर्जयित्वा परिशिष्टानां विशेषणं भवति। स्वादिषु कर्मसु उपपदेषु करोतेर् धातोः क्विप् प्रत्ययो भवति। सुकृत्। कर्मकृत्। पापकृत्। मन्त्रकृत्। पुण्यकृत्। अयम् अपि नियमार्थ आरम्भः। त्रिविधश्च अत्र नियम इष्यते। धातुनियमं वर्जयित्वा कालोपपदप्रत्ययनियमः। धतोरनियतत्वादन्यस्मिन्नुपपदे अपि भवति। शास्त्रकृत्। भाष्यकृट्।
TBD.
–
809 सुकर्म।सु, कर्म, पाप, मन्त्र, पुण्य एषां पञ्चानां द्वन्द्वः। त्रिविध इति। `सुकर्मादिषु भूते कृञः क्विबेवे'ति, `सुकर्मादिषु भूते कृञ एव क्विबिति, `सुकर्मादिषु भूते कृञ एव क्वि'बिति `सुकर्मादिषु भूत एव कृञ' इति त्रिविध इत्यर्थः। अण् नेति। क्तवतुस्तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्तेरिति भावः। स्वादिष्वेवेति। सुकर्मादिषु पञ्चस्वित्यर्थः।
669 सुकर्म। त्रिविध इति। धातुनियमस्त्विह नेष्त इति भावः। क्विबेवेतीति। `भूते क्विबेवे'ति प्रत्ययान्तरसंबन्धनिवृत्तिफलककालनियमादित्यर्थः। कृञ एवेतीति। `सुकर्मादिषु कृञ एवे'ति धात्वन्तरसंबन्धनिवृत्तिफलकोपपदनियमादित्यर्थः। भूत एवतीति। `भूत एव क्वि'बिति कालान्तरसंबन्धनिवृत्तिफलकप्रत्ययनियमादित्यर्थः। स्वादिष्वेवेतीति। `स्वादिष्वेव कृञ' इत्युपपदान्तरसंबन्धनिवृत्तिफलकधातुनियमाऽभावादित्यर्थः।
TBD.