Table of Contents

<<3-2-85 —- 3-2-87>>

3-2-86 करमणि हनः

प्रथमावृत्तिः

TBD.

काशिका

करणि उपपदे हन्तेर् धातोः णिनिः प्रत्ययो भवति भूते कले। पितृव्यघाती। मातुलघाती। कुग्सितग्रहणं कर्तव्यम्। इति मा भूत्, चौरं हतवान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

807 कर्मणि हनः। कर्मण्युपपदे भूतार्थाद्धनेर्णिनिः स्यात्। पितृव्यघातीति। पितृव्यं हतवानित्यर्थः। `हनस्तः' इति तः, `हो हन्ते'रिति हस्य घः।

तत्त्वबोधिनी

667 कर्मणि हनः। पितृव्यघातीति। अत्र काशिका `कुत्सितग्रहणं कर्तव्यम्। इह माभूत्, चोरं हतवा'निति। यद्यपीदं भाष्ये नास्ति तथापि शब्दशक्तिस्वाभाव्यदिदं लभ्यत इत्याहुः।

Satishji's सूत्र-सूचिः

TBD.