TBD.
कर्मणि इति वर्तते। ब्रह्मादिषु कर्मसु उपपदेषु हन्तेर् धातोः क्विप् प्रत्ययो भवति भूते। ब्रह्महा। ब्रूणहा। वृत्रहा। किमर्थम् इदम् उच्यते यावता सर्वधातुभ्यः क्विप् विहित एव? ब्रह्मादिषु हन्तेः क्विब्वचनं नियमार्थम्। चतुर्विधश्च अत्र नियम इष्यते। ब्रह्मादिष्वेव हन्तेः, न अन्यस्मिन्नौपपदे, पुरुषं हतवानिति। ब्रह्मादिषु हन्तेरेव, न अन्यस्मात् स्यात्, ब्रह्म अधीतवानिति। ब्रह्मादिषु हन्तेर् भूतकाले क्विपेव न अन्यः प्रत्ययः, तथा भूतकाले एव न अन्यस्मिन्, ब्रह्माणं हन्ति हनिष्यति वा इति। तदेतद् वक्ष्यमाणबहुलग्रहणस्य पुरस्ताऽदपकर्षणाल् लभ्यते।
TBD.
–
808 ब्राहृभ्रूण। पूर्वसूत्रात्कर्मग्रहमाऽनुवृत्तेराह– कर्मस्विति। हन्तेभूते इति। भूतार्थवृत्तेर्हन्तेरित्यर्थ-। चतुर्विध इति। पुनर्विधानलब्धस्य एवकारस्य विनिगमनाविरहाच्चतुष्र्वपि निवेश इति भावः। तत्र `ब्राहृआदिष्वेव हन्ते'रिति नियमात् पुरुषं हतवानित्यत्र न क्विप्। `ब्राहृआदिषु हन्तेरेवे'ति नियमाद्ब्राहृ अधीतवानित्यत्र न क्विप्। `ब्राहृआदिषु हन्तेर्भूतकाले एवे'ति नियमाद्ब्राहृ हन्ति हनिष्यति वेत्यत्र न क्विप्। `क्विबेवे'ति नियमाद्ब्राहृ हतवानित्यतर् अण् न भवति, किंतु `ब्राहृभ्रूणे'ति क्विबेव। निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्तेः। द्विविध इति। `उभयतो नियमोऽयम्' - ब्राहृआदिष्वेव' `क्विबेवे'ति च भाष्यमित्यर्थः. एवं च `हन्तेरेव', `भूत एवे'ति नियमद्वयमुपेक्ष्यमिति भावः।
668 चतुर्विध इति। अयमाशयः– इह सूत्रे श्रुतत्वात्पूर्वं ब्राहृआदय उद्देश्यास्ततोऽनन्तरं प्रकृतित्वाद्धन्तिस्ततः परिशेषाद्भूत इति। क्विप् तु सर्वान्ते निर्देष्टव्यः, विधेयत्वात्। तदेवं वचनव्यक्तिः–`ब्राहृआदिषूपपदेषु हन्तेर्भूते क्वि' बिति। एवं स्थिते `यत्रैवकरास्ततोऽन्यत्र नियम' इतिन्यायेन नियमोऽत्र भवन्ननन्तरे भवति। ततश्च ब्राहृआदिष्वेवेत्यवधारणे हन्तेस्तदनन्तरनिर्द्दिष्टत्वादुपपदान्तरनिवृत्तिफलः [प्रकृति] नियमो भवति। `ब्राहृआदिषु हन्तेरेव भूते' इत्यवधारणे त्वनन्तरत्वाऽविशेषेऽपि प्राथम्यादुपपदनियमो धात्वन्तरनिवृत्तिफलकः। `ब्राहृआदिषु हन्तेर्भूते एव क्वि' बित्यवधारणे तु क्विभन्त्योरानन्तर्येऽविशिष्टेऽपि प्राधान्यात्कालान्तर संबन्धानवृत्तिफलकः प्रत्ययनियमः। `ब्राहृआदिषु हन्तेर्भूते क्विबेवे'ति वचनव्यक्तौ प्रत्ययान्तरसंबन्धनिवृत्तिफलकः कालनियमः। सोऽयं प्रकृत्युपपदप्रत्ययकालनियमानां विवेकः। अगृह्रमाणविशेषत्वात्तुचतुर्विधस्यापीह ग्रहणम्। तत्र `ब्राहृआदिष्वेव हन्ते'रिति प्रकृतिनियमे भूतैत्याश्रयणाद्वर्तमानकाले भविष्यत्काले चोपपदान्तरेऽपि भवत्येव। पुरुषं हन्ति हनिष्यति वा पुरुषहा। `अरिहयोऽरहयोगविचक्षणः'। अरीन् हन्तीति अरिहा, स चासौ योगश्च अरिहयोगस्तत्र विचक्षण इत्यर्थः। प्रकृतिनियमफलं तु पुरुषं हतवान् पुरुषहा इति भूतार्थे प्रयोगाऽभावः। `ब्राहृआदिषु हन्तेरेव'त्युपपदनियमेऽपि भूत इत्याश्रयणाद्वर्तमानभविख्यत्कालयोर्धात्वन्तरादपि भवत्येव,– वृत्रं जयति जेष्यति वा वृत्रजिदिति। उपपदनियमफलं तु वृत्रं जितवान् वृत्रजदिति प्रयोगाभावः। `भूत एव क्वि' बिति प्रत्ययनियमेऽपि ब्राहृआदिष्वित्युक्तेरुपपदान्तरे वर्तमानभविष्यत्कालयोर्हन्तेः क्विब्भवत्येव। पुरुषं हनति हनिष्यति वा पुरुषहा। अरिहेति प्राग्वत। प्रत्ययनियमफलं तु ब्राहृआणं हन्ति ब्राहृहेत्यादिप्रयोगाऽभावः। `भूते क्विबेवे'ति कालनियमेऽपि ब्राहृआदिष्वित्युक्तेरुपपदान्तरे भूतेऽपि प्रत्ययान्तरं भवत्येव, – पितृव्यं हतवान् पितृव्यघाती। इह `कर्मणि हनः' इति भूते णिनिः। कालनियमफलंतु ब्राहृआणं हतवान् ब्राहृघातीति प्रयोगाऽभावः। सोपपदश्च प्रत्ययो नियमेन व्यावर्त्त्यते, निष्ठा तु भवत्येव वृत्रं हतवानिति। भाष्यकारस्तु प्रकृतिकालनियमावेवाऽशिश्रियत्। तस्यायमाशयः– धातुकालौ हि नेह सूत्रे श्रुतौ, किं तु प्रकरणलक्षणजघन्यप्रमाणेनोपस्थितौ। अतस्तयोरेवोपरोधो न्याय्यो न तूपपदप्रत्ययोः, श्रुत्युपस्थापितत्वात्। एवं न्यायोपष्टब्धेन भाष्येण सह विरोधाद्वृत्तिमतमुपेक्ष्यमेवेति कैयटे स्थितम्। यत्त्विह हरदत्तेनोक्तं- - धातूपपदविषयं नियमद्वयं भाष्ये प्रदर्शितमिति,तत्र धातुकालविषयमिति वक्तव्ये उपपदग्रहमं प्रामादिकमित्यवधेयम्।
TBD.