TBD.
सुपि इति वर्तते। मन्यतेः सुबन्ते उपपदे णिनिः प्रत्ययो भवति। दर्शनीयमानी। शोभनमानी। बहुलग्रहणानुवृत्तेः मन्यतेः ग्रहणं न मनुतेः। उत्तरसूत्रे हि खश्प्रत्यये विकरणकृतो विशेषः स्यात्।
TBD.
807 सुपि मन्यतेर्णिनिः स्यात्. दर्शनीयमानी..
802 मनः। दैवादिकस्यैव मनेग्र्रहणं न तु तानादिकस्य, बहुलग्रहणाऽनुवृत्तेः। तदाह– मन्यतेरिति। मनुतेग्र्रहणे तु बाधकमुत्तरसूत्रे वक्ष्यते।
662 मनः। बहुलग्रहणानुवृत्तेरिह मन ज्ञान दैवादिकस्यैव ग्रहणं न तु मनु अवबोधन इति तानादिकस्य। तेन उत्तरसूत्रे खशि श्यनेव भवति न तूप्रत्ययः। तदाह– मन्यतेरिति।
TBD.