Table of Contents

<<3-2-79 —- 3-2-81>>

3-2-80 व्रते

प्रथमावृत्तिः

TBD.

काशिका

व्रत इति शास्त्रतो नियम उच्यते व्रते गम्यमाने सुबन्त उपपदे धातोः णिनिः प्रत्ययो भवति। समुदायोपधिश्च अयम्। धतूपपदप्रत्ययसौदयेन व्रतं गम्यते। स्थण्डिलशायी। अश्राद्धभोजी। कामचारप्राप्तौ नियमः। सति शयने स्थण्डिल एव शेते न अन्यत्र। सति भोजने ऽश्राद्धम् एव भुङ्क्ते न श्राद्धम् इति। व्रते इति किम्? स्थाण्डिले शेते देवदत्तः। अतच्छील्यार्थ आरम्भः, जात्यर्थो वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

800 व्रते। णिनिः स्यादिति। सुप्युपपदे णिनिः स्याद्द्व्रते गम्ये इति यावत्। स्थण्डिलेशायीति। `तत्पुरुषे कृती'ति [सप्तम्या] अलुक्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.