TBD.
कर्तृवाचिनि उपमाने उपपदे धातोः णिनिप्रत्ययो भवति। उपपदकर्ता प्रत्ययार्थस्य कर्तुरुपमानम्। उष्ट्र इव क्रोशति उष्ट्रक्रोशी। ध्वाङ्क्षरावी। अताच्छील्यार्थ आरम्भः, जात्यर्थो वा। कर्तरि इति किम्? अपूपानिव भक्षयति माषान्। उपमने इति किम्? उष्ट्रः क्रोशति।
TBD.
–
799 कत्र्तर्युपमाने। कर्तुरुपमानमिति। `चे'दित्यध्याहार्यम्। ननु `सुप्यजातौ' इति सिद्धे किमर्थमिदमित्यत आह– अताच्छील्यार्थमिति।
–
TBD.