Table of Contents

<<3-2-7 —- 3-2-9>>

3-2-8 गापोष् टक्

प्रथमावृत्तिः

TBD.

काशिका

कर्मण्यनुपसर्गे इति वर्तते। गायतेः पिबतेश्च धातोः कर्मण्युपपदे ऽनुपसर्गे टक् प्रत्ययो भवति। कस्य अपवादः। शक्रं गायति शक्रगः, शक्रगी। सामगः, सामगी। सुराशीध्वोः पिबतेरिति वक्तव्यम्। सुरापः, सुरापी। शीधुपः, शीधुपी। सुराशीध्वोः इति किम्? क्षीरपा ब्राह्मणी। पिबतेः इति किम्? सुरां पाति इति सुरापा। अनुपसर्गे इत्येव, शक्रसङ्गायः। सामसङ्गायः। बहुलं छन्दसि इति वक्तव्यम्। या बाह्मणी सुरापी भवति नैनां देवाः पतिलोकं नयन्ति। या ब्रह्मणी सुरापा भवति नैनां देवाः पतिलोकं नयन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

738 गापोष्टक्। `गै शब्दे' `पा पाने' इत्यनयोः टक् स्यात्कर्मण्युपपदे। आतो युकि रूपम्। पिबतेरिति। वार्तिकमिदम्। पाधातोः सुराशीध्वोरुपपदयोः टक् स्यादित्यर्थः। क्षीरपेति। क्षीरं पिबतीत्यर्थे सुराशीध्वोर्नयतरत्वाऽभावात् `आतोऽनुपसर्गे कः' इति कप्रत्यये टाप्। पाति रक्षतीति। अजित्यर्थः। उद्यमनम् - उद्ग्रहणम्। अंशहर इति। अंशस्य स्वीकर्तेत्यर्थ-। भारहार इति। भारम् उद्गृह्णातीत्यर्थः। ग्रहेरुपसङ्ख्यानमिति। `अच्प्रत्ययस्ये'ति शेषः। `ग्रह उपादाने' अदुपधऋ। `गृहे'रिति पाठे तु कृतसंप्रसारणस्य इका निर्देशो बोध्यः। शक्तिग्रह इति। अकित्त्वान्न संप्रसारणम्। लाङ्गलग्रह इति। एवम् – `अङ्कुशग्रह' इत्याद्यप्युदाहार्यम्। सूत्रे चेति। वार्तिकमिदम्। सूत्रे कर्मण्युपपदे धारणार्थकाद्ग्रहधातोजित्यर्थः।

तत्त्वबोधिनी

617 गापोष्टक्। इहगामादग्रहणेष्वविशेषेऽपि गायतेरेव ग्रहणं, न तु गाङ् गतौ, गा स्तुतौ इत्यनयोः, अनभिधानात्। सामगः समगीति। एतेन टकः कित्तवमालोपार्थं टित्त्वं नु ङीबर्थमिति ध्वनितम्। प्रत्ययाऽधिकाराट्टकः प्रत्ययत्वेन `प्रत्ययः' `परश्चे' ति धातोः पर एव स्यादिति `आद्यन्तौ टकितौ' इत्यस्याऽत्र आशङ्कैव नास्तीति बोध्यम्। सामसङ्गाय इति। कर्मण्यणि सति `आतो यु'गिति युक्। वाच्यम्। पिबतेरिति। `लुग्विकरणाऽलग्विकरणयोः' इति पिरभाषलभ्यार्थकथनम्, उपपदपरिगणनं तु वाचनिकमेव। क्षीरपेति। क्षीरं पिबतीत्यातोऽनुपसर्गे कः। शक्तिलाङ्गलाङ्कुशतोमरयष्टिघटघटीधनुष्षु ग्रहेरुपसङ्ख्यानम्। शक्तीति। घटग्रहणेनैव सिद्धे घटीग्रहणं लिङ्गविशिष्टपरिभाषाया अनित्यत्वज्ञापनार्थं, तेन मद्रराज्ञीत्यत्र टज्न, `द्विषतीताप' इत्यत्र `द्विषत्परयो'रिति खच् नेति दिक्।

Satishji's सूत्र-सूचिः

TBD.