Table of Contents

<<3-2-6 —- 3-2-8>>

3-2-7 समि ख्यः

प्रथमावृत्तिः

TBD.

काशिका

सोपसर्गार्थः आरम्भः। संपूर्वात् ख्या इत्येतस्माद् धातोः कर्मण्युपपदे कप्रत्ययो भवति। अणो ऽपवादः। गां संचष्टे गोसङ्ख्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

737 समि ख्यः। `समी'ति पञ्चम्यर्थे सप्तमी। गोसङ्ख्य इति। गाः संचष्ट इति विग्रहः। संपूर्वाच्चक्षिङः ख्याञि रूपम्। `ख्या प्रकथने' इत्यस्य तु संपूर्वस्य प्रयोगाऽभावात्, सार्वधातुकमात्रविषयत्वाच्च नेह सम्बध्यते।

तत्त्वबोधिनी

616 गोसङ्ख्य इति। गाः संचष्टे इति विग्रहः। `चक्षिङः ख्याञ्'। ख्या प्रकथन इत्यस्य तु संपूर्वस्य प्रोयगो नास्तीति न्यासकारः। सार्वधातुकमात्रविषयोऽसौ धातुरिति च मनोरमादौ स्थितम्।

Satishji's सूत्र-सूचिः

TBD.