TBD.
सोपसर्गार्थ आरम्भः। ददातेः जानातेश्च धातोः प्रेणोपसृष्टात् कर्मण्युपपदे कप्रत्ययो भवति। अणो ऽपवादः। सर्वप्रदः। पथिप्रज्ञः। प्रे इति किम्? गोसन्दायः।
TBD.
–
736 प्रे दाज्ञः। `प्रे' इति सप्तमी पञ्चम्यर्थे। दा, ज्ञा- - अनयोद्र्वन्द्वात्पञ्चम्येकवचम्। प्रोपसृष्टादिति। प्रेत्युपसर्गपूर्वकादित्यर्थः। सोपसर्गार्थ आरम्भः।
615 प्रे दा। गामादाग्रहणेष्वविशेषादाह–दारूपादित। पथिप्रज्ञ इति। पन्थानं प्रकर्षेण जानातीत्यर्थः। प्रादन्यस्मिन्निति। प्रशब्दमात्रोपपदे अस्य सूत्रस्य चरितार्थत्वादुपसर्गान्तरे सति `आतोऽनुपसर्गे' इत्यनेनापि न भवतीति भावः।
TBD.