Table of Contents

<<3-2-68 —- 3-2-70>>

3-2-69 क्रव्ये च

प्रथमावृत्तिः

TBD.

काशिका

क्रव्यशब्द उपपदे अदेर् धातोः विट् प्रत्ययो भवति। क्रव्यमत्ति क्रव्यात्। पूर्वेण एव सिद्धे वचनम् असरूपबाधनार्थम्। तेन अण् न भवति। कथं तर्हि क्रव्यादः? कृत्तविकृत्तशब्दे उपपदे अण्, तस्य च पृषोदरादिपाठात् क्रव्यभावः। कृत्तविकृत्तपक्वमांसभक्षः क्रव्याद उच्यते, आममांसभक्षः क्रव्यातिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

788 क्रव्ये च। अदेर्विडिति। शेषपूरणमिदम्। अण्बाधनार्थमिति। क्रव्ये अदेर्विडेव, न त्वणित्यर्थलाभादिति भावः। कथं तर्हीति। `क्रव्ये उपपदे अदेर्विडेवे'ति नियमादणोऽसंभवादित्याक्षेपः। समाधत्ते– पक्वमांसशब्ददिति। तर्हि `पक्वमांसाद' इति स्यादित्यत आह–उपपस्य क्रव्यादेश इति। कुत इत्येत आह- - पृषोदरादित्वादिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.