Table of Contents

<<3-2-67 —- 3-2-69>>

3-2-68 अदो ऽनन्ने

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि इति निवृत्तम्। अदेर् धातोरनन्ने सुप्युपपदे विट् प्रत्ययो भवति। आममत्ति आमात्। सस्यात्। अनन्ने इति किम्? अन्नादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

787 अदोऽनन्ने। विट् स्यादिति। शेषपूरणमिदम्। अन्नशब्दभिन्ने सुप्युपपदे अदेर्विट् स्यादिति फलितम्। `जनसनखनक्रमगमो वि'जिति छान्दससूत्राद्विडित्यनुवर्तते। सस्यादिति। सस्यमत्तीति विग्रहः। अन्नाद इति। कर्मण्यण्।

तत्त्वबोधिनी

653 अदोऽनन्ने। विट् स्यादिति। `जनसनखनक्रमगमो विट्'इति पूर्वसूत्रादनुवृत्तेः। पूर्वसूत्रं त्विह नोपन्यस्तम्, तत्र हि `छन्दसि सहः' इत्यश्छन्दसीत्यनुवर्तनात्।

Satishji's सूत्र-सूचिः

TBD.