Table of Contents

<<3-2-54 —- 3-2-56>>

3-2-55 पाणिघताडघौ शिल्पिनि

प्रथमावृत्तिः

TBD.

काशिका

पाणिघ ताडघ इत्येतौ शब्दौ निपात्येते शिल्पिनि कर्तरि। पाणि ताड इत्येतयोः कर्मणोः उपपदयोः हन्तेः धतोः टक् प्रत्ययो भवति,तस्मिंश्च परतो हन्तेः टिलोपो घत्वं च निपात्यते। पाणिघः। ताडघः। शिल्पिनि इति किम्? पाणिघातः। ताडघातः। राजघ उपसङ्ख्यानम्। राजानं हन्ति राजघः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

783 पाणिघताडघौ। पाणिना हन्तीति पाणिघः। ताडः = ताडनं, तेन हन्तीति ताडघः = मल्लादिः। राजघ उपसङ्ख्यानमिति। राजघशब्दे उक्तनिपातनस्य उपसङ्ख्यानमित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.