TBD.
आढ्यादिषु कर्मसु उपपदेषु च्व्यर्थेषु अच्व्यन्तेषु करोतेः धातोः करणे कारके ख्युन् प्रत्ययो भवति। च्वेर् विकल्पेन विधानाद् द्विविधाः च्व्यर्थाः, च्व्यन्ता अच्व्यन्ता श्च। तत्र च्व्यन्ताः पर्युदस्यन्ते। अनाढ्यं आढ्यं कुर्वन्ति अनेन आढ्यङ्करणम्। सुभगङ्करणम्। स्थूलङ्करणम्। पलितङ्करणम्। नग्नङ्करणम्। अन्धङ्करणम्। प्रियङ्करणम्। च्व्यर्थेषु इति किम्? आढ्यं तैलेन कुर्वन्ति अभ्यञ्जयन्ति इत्यर्थः। प्रकृतेरविवक्षायाम् अभूतप्रादुर्भावे ऽपि प्रत्युदाहरणं भवति। अच्वौ इति किम्? आढ्यीकुर्वन्त्यनेन। ननु च ख्युना मुक्ते ल्युटा भवितव्यम्, न च ल्युटः ख्युनश्च विशेषो ऽस्ति, तत्र किं प्रतिषेधेन? एवं तर्हि प्रतिषेधसामर्थ्यात् ख्युनि असति ल्युडपि न भवति, तेन ल्युटो ऽप्ययम् अर्थतः प्रतिषेधः। उत्तरार्थश्च च्विप्रतिषेधः क्रियते।
TBD.
–
784
650 आढ\उfffद्ङ्करणमिति।लिङ्गविशिष्टिपरिभाषया आढ\उfffद्शब्देऽप्युपपदे यदा ख्युन् तदापि `खित्यनव्ययस्ये'ति ह्यस्वेन एतदेव रूपम्। आढ्यीकुर्वन्त्यनेनेति। नन्विह ख्युनोऽभावेऽपि `करणाधिकरणयोश्चे'ति ल्युटा भवितव्यमित्यत आह– - प्रतिषेधसामथ्र्यादिति। तथाहि आढ्यीकरणमिति रूपं ल्युट्ख्युनोस्तुल्यम्। न च ख्युनि मुम्ह्यस्वौ स्यातामिति वाच्यम्, `अनव्ययस्ये'ति पर्युदासात्। `ऊर्यादिच्विडाचश्चे'ति निपातसंज्ञकत्वेन च्व्यन्तस्य अव्ययत्वात्। न च ख्युनि सति `उपपदमति'ङिति नित्यसमासो लभ्यते, ल्युटि तु नेति वाच्यं, ल्युट\उfffद्पि गतिसमासस्य संभवात्। तस्यापि नित्यसमासत्वात्। न च स्त्रीप्रत्यये विशेषः, ल्युटि `टिड्ढे'ति सूत्रेण,ख्युनि तत्रत्येन ख्युन उपसङ्ख्यानेन च ङीपस्तुल्यत्वात्। नापि स्वरे विशेषः, ल्युटि लित्स्वरेण, ख्युनि नित्स्वरेण कृञ उदात्तत्वाऽविशेषात्। न चोत्तरार्थमच्वावित्युक्तमिति वाच्यं, केवलोत्तरार्थत्वे हि तत्रैव ब्राऊयात्। तदेतदुक्तम् ल्युडपि नेति। भाष्यमते त्विति। भाष्यवार्तिकस्वरसेन ल्यडिष्ट इति केवलोत्तरार्थत्वं लभ्यते। अतस्तद्विरोधाद्वृत्तिकृन्मतमयुक्तमिति कैयटः।
TBD.