Table of Contents

<<3-2-50 —- 3-2-52>>

3-2-51 कुमारशीर्षयोर् णिनिः

प्रथमावृत्तिः

TBD.

काशिका

हन इति वर्तते। कुमार शीर्ष इत्येतयोः उपपदयोः हन्तेः णिनिः प्रत्ययो भवति। कुमारघाती। शीर्षघाती। निपातनाच् छिरसः शीर्षभावः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

779 कुमारशीर्षयोर्णिनिः। अनयोरुपपदयोर्हन्तेर्णिनिः स्यादित्यर्थः। नकारादिकार उच्चारणार्थः।

तत्त्वबोधिनी

646 कुमारशीर्षयोर्णिनि)। एतयोः कर्मणोरुपपदयोर्हन्तेर्णिनिः स्यात्। `सुप्यजातौ' इत्यादिभिः सिद्धे ताच्छील्यावश्यकाऽधमण्र्यविरहेऽपि णिन्यर्थं, शिरसः शीर्षभावार्थं च वचनम्।

Satishji's सूत्र-सूचिः

TBD.