TBD.
अत्र सुपि इत्युपतिष्ठते। आशितशब्दे सुबन्ते उपपदे भवतेर् धातोः करणे भावे चार्थे खच् प्रत्ययो भवति। आशितो भवति अनेन आशितम्भव ओदनः। भावे आशितस्य भवनम् आशितम्भवं वर्तते।
TBD.
–
773 #आशिते। करणे उदाहरति– आशितो भवत्यनेनेति। भावे उदाहरति– आशितस्य भवनमिति।
642 आशितंभव इति। यावता ओदनेन अतिथ्यादिर्भोजितो बवति स एवमुच्यते। इह वासरूपविधिना ल्युडपि। [आशित भवनः।भावे]-आशितभवनम्। घञ् तु बाध्यत एव, सरूपत्वादित्याहुः। नचाऽत्र क्तल्युट्तुमुन्?खलर्थेषु वासरूपविधिर्नेति ल्युटो निषेधः शङ्क्यः। यत्र हि घञादेर्बाधकत्वेन क्तल्युडादयः प्रसक्तास्तत्र नित्यं बोधो न तु विकल्पेनेति तस्यार्थः। इह तु ल्युटोऽप्यपवादः खच्। अत्र वासरूपन्यायो निर्बाध एव। एतच्च आशितभवनमित्युदाहरतो जयादित्यस्यापि संमतमेवेति दिक्।
TBD.