TBD.
कर्मणि इति सुपि इति च प्रकृतं सज्ञावशाद् यथासम्भवं सम्बध्यते। भृ तृ\उ0304 वृ जि धारि सहि तपि दम इत्येतेभ्यो धातुभ्यः संज्ञायां विषये खच् प्रत्ययो भवति। विश्वम्भरा वसुन्धरा। रथन्तरं साम। पतिंवरा कन्या। शत्रुञ्जयो हस्ती। युगन्धरः पर्वतः। शत्रुंसहः। शत्रुंतपः। अरिंदमः। सज्ञायाम् इति किम्? कुटुम्बं बिभर्ति इति कुटुम्बभारः।
TBD.
–
774 संज्ञायाम्। `ख'जिति शेषः। भृ, तृ? , वृ ,जि, धारि, सहि, तपि, दमि- एषामष्टानं समाहारद्वन्द्वात्पञ्चमी। वि\उfffदाम्भर इति। विष्णोरियं संज्ञा। वि\उfffदाम्भरेति। पृथिव्याः संज्ञा इयम्। रथन्तरमिति। तृ?धातोः खच्। रथेन तरितृत्वस्य सामविशेषे असंभवादाह– इहेति। वृधातोरुदाहरति– पतिंवरेति। शत्रुञ्जय इति। जिधातोः खच्। `धारी'ति ण्यन्तग्रहण, तस्योदाहरति– युगन्धर इति। युगं धारयतीति विग्रहः। `खचि ह्यस्वः' इत्युपधाह्यस्वः। णिलोपः। शत्रुंसह इति। शत्रून् सहते विग्रहः। ह्यस्वादि पूर्ववत्। एवमग्रेऽपि। शत्रुन्तप इति। शत्रून् तपतीति विग्रहः। अरिन्दम इति। अरिषु निग्रहविषये शाम्यतीत्यर्थः। दमिः शमनायामिति। `दमु उपशमे' इति धातुपाठे उपशमशब्दे शमेण्र्यन्ताद्धञ्। तथा च दाम्यतीत्यस्य उपशमयतीत्यर्थाश्रयणात्सकर्मकत्वमिति माधवादिमते सकर्मकोऽयमित्यर्थः। मतान्तरे त्विति। `दमु उपशमे' इत्युपशमार्थस्य दमेरकर्मकत्वमिति हरदत्तादिभिरुक्तमित्यर्थः।
643 संज्ञायां भृतृ?। `वि\उfffदाम्भरः कैटभजित्'। `रसा वि\उfffदाम्भरा स्थिरा' इत्यमरः। व्युत्पत्तिमात्रमिति। तत्फलं तु स्वरावग्रहौ। `रथन्तरमाजभारा वसिष्ठः' इत्यत्र हि रथमित्यवगृह्णन्ति। कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वं चाधीयते। अखण्डत्वे त्ववग्रहो न स्यात्, `नब्विषयस्ये'त्याद्युदात्तश्च स्यात्। इत्युक्तमिति। माधवाद्यनुरोधेनेत्यर्थः। मतान्तरे त्विति। हरदत्तादिमत इत्यर्थः। चित्तव्यापारोपरमः शमः, इन्द्रियव्यापारोपरमस्तु दम' इत्यादि वेदान्तग्रन्थाश्चेहानुकूलाः। संज्ञायां किम् ?। कुटुम्बं बिभर्तीति कुटुम्बभारः।
वृत्तिः खच् स्यात् । To derive a word which is a proper name, the affix “खच्” may be used after the following verbal roots – √भृ (डुभृञ् धारणपोषणयोः, # ३. ६), √तॄ (तॄ प्लवनतरणयोः, # १. ११२४), √वृ (वृञ् वरणे, # ५. ८ and वृङ् सम्भक्तौ, # ९. ४५), √जि (जि अभिभवे, # १. १०९६), √धारि (causative form of धृञ् धारणे, # १. १०४७), √सह् (षह मर्षणे, # १. ९८८), √तप् (तपँ सन्तापे, # १. ११४०) and √दम् (दमुँ उपशमे, # ४. १००) – when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) or a पदम् which ends in a सुप् affix (ref. 4-1-2 स्वौजसमौट्छष्टा..) as the case may be. Note: In the cases where the meaning of the derived compound follows the meaning of its constituents, the उपपदम् is a कर्म-पदम्। For example विश्वं बिभर्तीति विश्वंभरा (पृथिवी)। In the cases where the the meaning of the derived compound does not follow the meaning of its constituents, the उपपदम् may be any सुबन्तं पदम्। For example रथेन रथे वा तरतीति रथन्तरं (साम)।
उदाहरणम् – धनं जयतीति धनंजय:/धनञ्जय:।
धन + ङस् (ref: 2-3-65) + जि + खच् 3-2-46
Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-46 from the सूत्रम् 3-2-1) ends in the seventh (locative) case. Hence “धन + ङस्” (which is the object (कर्म-पदम्) of जयति) gets the उपपद-सञ्ज्ञा here by 3-1-92
= धन ङस् + जि + अ 1-3-3, 1-3-8, 1-3-9
= धन ङस् + जे + अ 7-3-84
= धन ङस् + जय् + अ 6-1-78 = धन ङस् + जय
Now we form the compound between “धन ङस्” (which is the उपपदम्) and “जय” using the सूत्रम् 2-2-19. Note: Here “धन ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “धन ङस्” is placed in the prior position as per 2-2-30
“धन ङस् + जय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= धन + जय 2-4-71
= धन मुँम् + जय 6-3-67, 1-1-47
= धनम् + जय 1-3-2, 1-3-3, 1-3-9. धनम् has the पद-सञ्ज्ञा here by 1-4-14 with the help of 1-1-62. This allows 8-3-23 to apply in the next step
= धनंजय 8-3-23
= धनंजय/धनञ्जय 8-4-59