Table of Contents

<<3-2-35 —- 3-2-37>>

3-2-36 असूर्यललाटयोर् दृशितपोः

प्रथमावृत्तिः

TBD.

काशिका

असूर्य ललाट इत्येतयोः कर्मणोरुपपदयोः दृशितपोः धात्वोः खश् प्रत्ययो भवति। असूर्यंपश्या राजदाराः। ललाटंतपः आदित्यः। असूर्य इति च असमर्थसमासो ऽयं, दृशिना नञः सम्बन्धात्, सूर्यं न पश्यन्ति इति। गुप्तिपरं चैतत्। एवं नाम गुप्ता यदपरिहार्यदर्शनं सूर्यम् अपि न पश्यन्ति इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

764 असूर्यललाट। दृशितपोरिति पञ्चम्यर्थे षष्ठी। असूर्ये ललाटे च कर्मण्युपपदे दृशेस्तपेश्च खशित्यर्थः। असूर्यमितीति। `असूर्यपश्या'इत्युदाहरणे असूर्यमित्यसमर्थसमासः सौत्र इत्यर्थः। कुतोऽसामथ्र्यमित्यत आह– दृशिनेति। सूर्यं न पश्यन्तीत्यर्थे नञो दृशिनाऽन्वितत्वेन सूर्यशब्देनाऽन्वयाऽभावादित्यर्थः। ललाटन्तपःसूर्य इति। ललाटं तपतीति विग्रहः। सूर्य पश्यतो ललाटस्य अवश्यं तापादिति भावः।

तत्त्वबोधिनी

636 असूर्यंपश्या इति। `पाघ्राध्मे'ति पश्यादेशः। गुप्तिपरं चेदम्। एवं नाम राजदारा गुप्ताः, यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्ति, किं पुनः परपुरुषमिति। तेन सत्यपि सूर्यदर्शन प्रयोगो न विरुध्यते। यदा तु सूर्याऽभावदर्शनमात्रं, सूर्येतरचन्द्रादेर्दर्शनं वा विवक्षितं तदा खश् न भवत्यनभिधानादिति न्यासकारादयः।

Satishji's सूत्र-सूचिः

TBD.