Table of Contents

<<3-2-34 —- 3-2-36>>

3-2-35 विध्वरुषोस् तुदः

प्रथमावृत्तिः

TBD.

काशिका

विधु अरुसित्येतयोः कर्मणोरुपपदयोः तुदेर् धातोः खश् प्रत्ययो भवति। विधुन्तुदः राहुः। अरुनतुदः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

763 विध्वरुषोस्तुदः। विधु, अरुस् अनयोः कर्मणोरुपपदयोस्तुदः खशित्यर्थः। विधुंतुद इति। विधुश्चन्द्रः, तं तुदतीति विग्रहः। राहुरित्यर्थः। अरुस्शब्दे उकारादुपरि मुमि कृते सकारस्य संयोगान्तलोप इत्यर्थः। अरुन्तुद इति। अरुर्मर्म, तत्तुदन्तीति विग्रहः।

तत्त्वबोधिनी

635 विधुन्तुद इति। `अरुर्द्विषदजन्तस्य' इत्युकारात्परो मुम्। `तमस्तुराहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः'इत्यमरः। अरुन्तुद इति। `अरुन्तुदं तु मर्मस्पृक्' इत्यमरः। `व्रणोऽस्त्रियामीर्ममरुः' इति च।

Satishji's सूत्र-सूचिः

TBD.