Table of Contents

<<3-2-30 —- 3-2-32>>

3-2-31 उदि कूले रुजिवहोः

प्रथमावृत्तिः

TBD.

काशिका

रुजो भङ्गे, वह प्रापणे इत्येताभ्याम् उत्पूर्वाभ्यां कूले कर्मणि उपपदे खश् प्रत्ययो भवति। कूलम् उद्रुजति इति कूलमुद्रुजो रथः। कूलमुद्वहः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

759 उदि कूले। उदीति दिग्योगपञ्चम्यर्थे सप्तमी। रुजिवहोरिति पञ्चम्यर्थे षष्ठी। `रुजो भङ्गे' तुदादिः। अत्र रुजेः सकर्मकत्वात्कर्मण्युपपदे इति लब्धं, तेन कूलं विशेष्यते, न तू च्छब्दः, तस्याऽसत्त्ववाचित्वात्। तदाह– उत्पूर्वाभ्यामित्यादि. कूलमुद्रुज इति। सुपो लुकि मुमिति भावः।

तत्त्वबोधिनी

634 उदि कूले। ननु कूलस्येवोच्छब्दस्यापि सप्तम्यन्त्वादुपपदत्वं सयात्ततश्च रुजिवहिभ्यां सह यथासङ्ख्यं स्यादिति चेत्। अत्राहुः- नाडीमुष्ट\उfffदोरितिवल्लाघवादुत्कूलयोरिति वक्तव्ये उदीति व्यस्तोच्चारणान्नोपपदम्। एवं चोदीति पञ्चम्याः स्थानेसप्तमी, रुजिवहोरिति तु पञ्चम्याःस्ताने षष्ठीति। एतच्च यथासङ्ख्यसूत्रे कैयटे स्पष्टम्। किंच रुजेः सकर्मकत्वात्कर्मणीत्युपतिष्ठते, तेन कूलं विशेष्यते, नोच्चब्दः, असत्त्ववाचित्वनाऽसंभवात्। तदेतदाह– उत्पूर्वाभ्यामित्यादिना।

Satishji's सूत्र-सूचिः

TBD.