Table of Contents

<<3-2-29 —- 3-2-31>>

3-2-30 नाडीमुष्ट्योश् च

प्रथमावृत्तिः

TBD.

काशिका

नाडी मुष्ति इत्येतयोः कर्मणोरुपपदयोः ध्माधेटोः खश्प्रत्ययो भवति। अत्र अपि घ्यन्तस्य अपूर्वनिपातो लक्षणव्यभिचारचिह्नम्। तेन सङ्ख्यातानुदेशो न भवति। नाडिन्धमः। मुष्टिन्धमः। नाडिन्धयः। मुष्टिन्धयः। अनुक्तसमुच्चयार्थश्चकारः। घटिन्धमः। घटिन्धयः। खारिन्धमः। खारिन्धयः। वातन्धमः पर्वतः। वातन्धयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

633 नाडीमुष्ट\उfffदोश्च। यथासङ्ख्यनेति। एतच्चेहैव सूत्रे भाष्ये, वृत्तौ च स्थितम्। यत्तु `यथासङ्ख्य'मिति सूत्रे नाडीमुष्ट\उfffदोरित्युदाह्मतं भाष्ये तत्प्राप्तमात्राभिप्रायेणेत्येके। शब्दकौस्तुभे तु मतभेदेन तद्बोध्यमिति स्थितम्।

वातशब्दमप्युदाजहार– वातंधमः वातंधय इति, तत्तु भाष्यादौ न दृश्यत इति मूलेऽत्रोपेक्षितम्।

Satishji's सूत्र-सूचिः

TBD.