Table of Contents

<<3-2-28 —- 3-2-30>>

3-2-29 नासिकास्तनयोर् ध्माधेटोः

प्रथमावृत्तिः

TBD.

काशिका

नासिकास्तनयोः कर्मणोरुपपदयोः ध्माधेटोर्धात्वोः खश् प्रत्ययो भवति। यथासङ्ख्यमत्र नेष्यते। स्तने धेटः। सत्नन्धयः। नासिकायां तु ध्मश्च धेटश्च। नासिकन्धमः, नासिकन्धयः। तच् च एतन् नासिकस्तनयोरिति लक्षणव्यभिचारचिह्नादल्पाच्तरस्य अपूर्वनिपातनाल् लभ्यते। धेटः टित्वात् स्त्रियां ङीप् प्रत्ययो भवति। स्तनन्धयी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

757 नासिका। नसिका, स्तन अनयोद्र्वन्द्वात्सप्तमी। ध्मा, धेट् अनयोः द्वन्द्वात्पञ्चम्यर्थे षष्ठी। `ख'शिति शेषः। यथासङ्ख्यमन्वये प्राप्ते आह– अत्र वार्तिकमिति। धेटष्टित्त्वादिति। यद्यपि `टिड्ढे'त्यत्र टिदाद्यन्तं यददन्तं प्रातिपदिकमिति व्याख्यातम्, तथापि टित्त्वस्यावयवे अचरितार्थत्वान्ङीबिति हरदत्तः। अत्र यद्वक्तव्यं तत् `प्राघ्राध्माधेट्?दृशः शः' इत्यत्रोक्तम्। नासिकन्धम इति। ह्यस्वे कृते मुम्। नासिकाया ध्मश्चेति। चकाराद्धेटश्चेति लभ्यते। तस्योदाहरति– नासिकन्धय इति।

तत्त्वबोधिनी

632 * स्तने धेटोनासिकायां ध्मश्चेति वाच्यम्। धेटष्टित्त्वादिति। अवयवे अचरितार्थत्वादिति भावः। खश्प्रत्यन्तादेव धेटो ङीबिष्टो नान्यत इति वद्र्धमानक्षीरस्वामिहरदत्तायः। तेन `पाघ्राध्माधे' डिति शप्रत्यये `आतोऽनुपसर्गे कः' इति कप्रत्यये च टाबेव। धया–कन्या। गां धयतीति गोधा। अत्र च संप्रदाय एव शरणम्। नासिकंधम इति। `पाघ्राध्मे'ति धमादेशः।

Satishji's सूत्र-सूचिः

TBD.