Table of Contents

<<3-2-22 —- 3-2-24>>

3-2-23 न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु

प्रथमावृत्तिः

TBD.

काशिका

शब्दादिषु उपपदेषु करोतेः टप्रत्ययो न भवति। हेत्वादिषु प्राप्तः प्रतिषिध्यते। शब्दकारः। श्लोककारः। कलहकारः। गाथाकारः। वैरकारः। चाटुकारः। चटुकारः। सूत्रकारः। मन्त्रकारः। पदकारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

750 न शब्दश्लोक। शब्द, श्लोक, कलह, गाथा, वैर, चाटु, सूत्र, मन्त्र, पद- एषां नवानां द्वन्द्वः। हेत्वादिष्विति। `कृञो हेतुताच्छील्यानुलोम्येषु' इति प्राप्तः टप्रत्ययोऽनेन प्रतिषिध्यते इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.