Table of Contents

<<3-2-23 —- 3-2-25>>

3-2-24 स्तम्बशकृतोरिन्

प्रथमावृत्तिः

TBD.

काशिका

स्तम्ब शकृतित्येतयोः कर्मणोरुपपदयोः इन्प्रत्ययो भवति। व्रीहिवत्सयोरिति वक्तव्यम्। स्तम्बकरिर्व्रीहिः। शकृत्करिर्वत्सः। व्रीहिवत्सयोः इति किम्? स्तम्बकारः। शकृत्करः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

751 स्तम्बशकृतोरिन्। स्तम्बे शकृति च कर्मण्युपपदे कृञ इन् स्यात्। नकार इत्। व्रीहिवत्सयोरिति। व्रीहौ वत्से च कर्तरीत्यर्थः। स्तम्बशकृतोर्यथासङ्ख्यमन्वयः। स्तम्बकरिव्र्रीहिरिति।स्तम्बं तृणनिचयं करोतीति विग्रहः।

तत्त्वबोधिनी

627 * व्रीहिवत्सयोरिति वक्तव्यम्। स्तम्बकरिरित्यादि। इनो नित्त्वात् कृदुतत्रपदप्रकृतिस्वरेणोत्तरपदमाद्युदात्तम्।

Satishji's सूत्र-सूचिः

TBD.