Table of Contents

<<3-2-186 —- 3-2-188>>

3-2-187 ञीतः क्तः

प्रथमावृत्तिः

TBD.

काशिका

ञि इद् यस्य असौ ञीत्। ञीतो धातोः वर्तमने ऽर्थे क्तप्रत्ययो भवति। भूते निष्ठा विहिता, वर्तमने न प्राप्नोति इति विधीयते। ञिमिदा स्नेहने मिन्नः। ञिक्ष्विदा क्ष्विण्णः। ञिधृषा धृष्टः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

891 ञीतः क्तः। ञि इद्यस्य तस्माद्वर्तमानाक्रियावृत्तेः क्त इत्यर्थः। `तयोरेव कृत्यक्ते'ति भावकर्मणोरेव भूते विहितः क्तो वर्तमाने न प्राप्नोतीत्यारम्भः। क्ष्विण्ण इति। `आदिश्चे'ति नेट्। इद्ध इति। \उfffदाईदितः' इति नेट्।

तत्त्वबोधिनी

733 क्ष्विण्ण इति। `आदितश्चे'ति नेट्। इद्ध इति। `\उfffदाईदितः' इति नेट्। नलोपः।

Satishji's सूत्र-सूचिः

TBD.