Table of Contents

<<3-2-185 —- 3-2-187>>

3-2-186 कर्तरि चर्षिदेवतयोः

प्रथमावृत्तिः

TBD.

काशिका

पुवः इति वर्तते। पुवः करने कर्तरि च इत्रप्रत्ययो भवति। ऋषिदेवतयोः यथासङ्ख्यं सम्बन्धः। ऋषौ करणे, देवतायां कर्तरि। पूयते अनेन इति पवित्रो ऽयम् ऋषिः। देवतायाम् अग्निः पवित्रं स मा पुनातु। वायुः सोमः सूर्य इन्द्रः पवित्रं ते मा पुनन्तु।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

372 कर्तरि च। पवित्रमिति। पावमान्यादिसूक्तम्। अग्निः पवित्रमिति। पुनातीत्यर्थः। सामान्याभिप्रायमेकवचनं, नपुंसकत्वं च। इति पूर्वकृदन्तम्॥

बालमनोरमा

याम् पूर्वकृदन्तम्॥ निरूप्यन्ते।\त्

तत्त्वबोधिनी

979 कर्तरि चर्षि। इत्रः स्यादिति। करणे कर्तरि चेत्यर्थः। काशिकानुसारेण यतासङ्ख्यं व्याचष्टे– ऋषौ करणे इति। `कर्तरि कृ'दिति सूत्रस्थभाष्यकैयटयोस्तु यथासङ्ख्यं नेति गम्यत इति शब्दकौस्तुभे स्थितम्। इति पूर्वकृदन्तम्। उणादिप्रकरणम्।

Satishji's सूत्र-सूचिः

TBD.