Table of Contents

<<3-2-180 —- 3-2-182>>

3-2-181 धः करम्णि ष्ट्रन्

प्रथमावृत्तिः

TBD.

काशिका

धयतेर् दधातेश्च कर्मणि कारके ष्ट्रन् प्रत्ययः भवति। षकारो डीषर्थः। धयन्ति तां दधति वा भैषज्यार्थम् इति धात्री। स्तनदायिनी आमलकी च उच्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

963 धः कर्मणि ष्ट्रन्। धेटः कृतात्वस्य धाञश्च ध इति पञ्चम्यन्तम्। तदाह– धेट इत्यादि। षकारात्तकारस्य ष्टुत्वसंपन्नटकारेण निर्देशः, षस्य इत्संज्ञायां लोपे सति ष्टुत्वसंपन्नस्य टस्य निवृत्तिः। तदाह– धात्रीत्यादि।

तत्त्वबोधिनी

788 धः कर्मणि। कर्मणीति नोपपदम्, `ह्वावामश्चे'त्यनन्तरमेव `धः ष्ट्र'न्निति वक्तव्ये पृथक्कर्मग्रहणाद्व्याख्यानाद्वेत्याशयेनाह– कर्मण्यर्थे इति। अत एव धीयते पीयत इति धात्री = स्तनदायिनीत्यादि व्याचक्षते।

Satishji's सूत्र-सूचिः

TBD.