Table of Contents

<<3-2-181 —- 3-2-183>>

3-2-182 दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे

प्रथमावृत्तिः

TBD.

काशिका

दाप् लवने, णीञ् प्रापणे, शसु हिंसायाम्, यु मिश्रणे, युजिर् योगे, ष्टुञ् स्तुतौ, तुद व्यथने, षिञ् बन्धने, षिचिर् क्षरणे, मिह सेचने, पत्ल्\उ0325 गतौ, दंश दशने, णह बन्धने, एतेभ्यो धातुभ्यः करणे कारके ष्ट्रन् प्रत्ययो भवति। दाति अनेन इति दात्रम्। नेत्रम्। शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्। तोत्त्रम्। सेत्रम्। सेक्त्रम्। मेढ्रम्। पत्रम्। दंष्ट्रा। अजादित्वात् टाप्, न डीप्। दंशेरनुनासिकलोपेन निर्देशो ज्ञापनर्थः, क्ङितो ऽन्यस्मिन्नपि प्रत्यये नलोपः क्वचिद् भवति इति। तेन ल्युट्यपि भवति। दशनम्। नद्घ्री।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

847 दाबादेः ष्ट्रन् स्यात्करणेर्ऽथे. दात्यनेन दात्रम्. नेत्रम्..

बालमनोरमा

964 दाम्नी। दाप्, नी, शस, यु , युज, स्तु, तुद, सि, सिच, मिह, पत, दश , नह एषां त्रयोदशानां द्वन्द्वः। `दाप् लवने' इत्यस्य पकारस्य स्थाने `यरोऽनु' इति कृतमकारस्य निर्देशः। अत्र शसेः पतेश्च त्रप्रत्यये इटमाशङ्क्याऽऽह–

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.