Table of Contents

<<3-2-179 —- 3-2-181>>

3-2-180 विप्रसम्भ्यो ड्वसंज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

भुवः इति वर्तते। वि प्र सम् इत्येवं पूर्वाद् भवतेर् धातोः डुप्रतयो भवति, न चेत् संज्ञा गम्यते। विभुः सर्वगतः। प्रभुः स्वामी। सम्भुः जनिता। असंज्ञायाम् इति किम्? विभूर्नाम कश्चित्। डुप्रकरणे मितद्र्वादिभ्य उपसङ्ख्यनम्। मितं द्रवति मितद्रुः। शम्भुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

962 विप्रसंभ्यः। `डु- अ- संज्ञाया'मिति छेदः। विभुरिति। डित्तवसमाथ्र्यादभस्यापि टेर्लोपः। सप्भुरिति। संभवति उत्पादयतीति सम्भुः। तदाह– जनितेति। मितद्?व्रादिसिद्द्ध्यर्थं डुप्रत्ययस्य उपसङ्ख्यानमित्यर्थः। शम्भुरिति। शं = सुखं , भवति = उत्पादयतीत्यर्थः। तदेवोपपादयति - अन्तर्भावितेति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.