TBD.
भवतेर् धातोः संज्ञायाम् अन्तरे च गम्यमाने क्विप् प्रत्ययो भव्ति। विभूर्नाम् कश्चित्। अन्तरे प्रतिभूः। धनिकाधमर्णयोरन्तरे यस् तिष्ठति स प्रतिभूरुच्यते।
TBD.
–
961 भुवः संज्ञान्तरयोः। `क्वि'बिति शेषः। `संज्ञान्तरयोरेवेति' नियमार्थं सूत्रम्। संज्ञायामुदाहरति– मित्रभूर्नामेति। अन्तरे उदाहरति– धनिकेत्यादि। यावद्द्रव्यभाविन्यः प्रतिभूशब्दस्तु सत्येव पुरुषे कदाचिन्न भवति, ऋणे प्रतिदत्ते सति प्रातिभाव्यस्य निवृत्तेः।
787 भुवः संज्ञा। धनिकेत्यादि। तेन ग्रामयोरन्तरे यस्तिष्ठति तत्र नेति भावः। एतच्च दृशिग्रहमाऽनुवृत्त्या लभ्यते। नन्वेवं प्रतिभूशब्द संज्ञेति फलितं, तत्र `संज्ञाया'मित्येव सिद्धं किमन्तरग्रहणेन ?। अत्राहुः- यावद्द्रव्यभाविन्यः संज्ञाः। प्रतिभूशब्दस्तु सत्येव तस्मिन् ऋणप्रदानेन निवर्तत इत्युभयोर्भेद इति। शं सुखं भावयतीति शम्भुरित्यर्थाभ्युपगमेनाह– अन्तर्भावितेति। शं भवति= सुखस्वरूपो भवतीति शम्भुरित्यन्ये। सं भवत्यस्मादिति व्युत्पत्तिस्तु अपादाने डुप्रत्ययाऽभावाच्चिन्त्येति माधवः।
TBD.