TBD.
विदेर् नुमागमः, इषेः छत्वम् उकारश्च प्रत्ययो निपात्यते तच्छीलादिषु कर्तृषु। वेदनशीलो विन्दुः। एषणशील इच्छुः।
TBD.
–
951 विन्दुरिच्छुः। वेत्तेरिति। `विद ज्ञाने' इत्यस्यादुप्रत्यये प्रकृतेर्नुमागमः। इषु इच्छायामित्यस्मादुप्रत्यये षकारस्य छत्वं च निपात्यते इत्यर्थः। वेत्तीति। धातुप्रदर्शनम्। तच्छील इति। वेदनशील इत्यर्थः। इच्छतीति। `इषु इच्छाया'मिति धातुप्रदर्शनम्। एषणशील इत्यर्थः।
781 विन्दुरिच्छुः। `विद ज्ञाने' इत्यस्यैव ग्रहणं नेतरेषाम्। एवमिषेरपि इच्छार्थकस्यैव ग्रहणं, नत्विष गतौ, इष आभीक्ष्ण्ये इत्यनयोः, अनभिधानान्निपातनाद्वेति भावः। बिन्दुशब्दस्तु पवर्गीयादिः– विदि अवयवेऽस्मान्मृगय्वादित्वात्कुप्रत्यये बोध्यः।
TBD.