Table of Contents

<<3-2-16 —- 3-2-18>>

3-2-17 भिक्षासेनाऽअदायेषु च

प्रथमावृत्तिः

TBD.

काशिका

अनधिकरणार्थः आरम्भः। भिक्षा सेना आदाय इत्येतेषु उपपदेषु चरेः धतोः टप्रत्ययो भवति। भिक्षाचरः। सेनाचरः। आदायचरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

796 भिक्षाचारः. सेनाचारः. आदायेति ल्यबन्तम्. आदायचरः..

बालमनोरमा

746 भिक्षासेना। भिक्षा, सेना, आदाय- एषु चोपदेषु चरेष्टः स्यादित्यर्थः। भिक्षां चरतीति। चरतिरत्र चरणपूर्वके आर्जने वर्तते। चरणेन भिक्षा मार्जयतीत्यर्थ-। सेनाचर इति। सेनां प्रापयतीत्यर्थः। ल्यबन्तमिति। अत्र व्याख्यानमेव शरणम्। आदाय चरतीति। लब्धं द्रव्यं गृहीत्वा चरतीत्यर्थः। कथमिति। अधिकरणे भिक्षासेनाऽऽदायेषु उपपदेषु च विहितस्य टप्रत्ययस्य सहपूर्वाच्चरेसंभवादिति भावः। समाधत्ते– पचादिष्विति। यद्यपि `भिक्षाचर' इत्यादौ पचाद्यचि रूपसिद्धिः, तथापि नित्योपपदसमासार्थमज्विधानमित्याहुः।

तत्त्वबोधिनी

623 भिक्षासेना। अनधिकरणार्थ आरम्भः। भिक्षां चरतीति। चरतिरत्र चरणपूर्वके अर्जने वर्तते। चरणेन भिक्षामर्जयतीत्यर्थः। सेनाचर इति। सेनां चरति = प्रविशतीत्यर्थः। पचादिष्विति। टविधानं तु `उपपदमति' ङिति नित्यसमासार्थम्। सहचरः। सहचतीत्यत्र तु सुप्सुपेति वैकल्पिकः समासः।

Satishji's सूत्र-सूचिः

TBD.