Table of Contents

<<3-2-15 —- 3-2-17>>

3-2-16 चरेष् टः

प्रथमावृत्तिः

TBD.

काशिका

अधिकरणे इति वर्तते। चरेर् धातोरधिकरणे सुबन्त उपपदे टप्रत्ययो भवति। कुरुषु चरति कुरुचरः। मद्रचरः। कुरुचरी। मद्रचरी। प्रत्ययान्तरकरणं ङीबर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

795 अधिकरणे उपपदे. कुरुचरः..

बालमनोरमा

745 चरेष्टः। ट इति च्छेदः। `अधिकरणे उपपदे' इति शेषः। `अधिकरणे शेते' रित्यतस्तदनुवृत्तेरिति भावः। कुरुचर इति। कुरुषु चरतीति विग्रहः। न च `अकर्मकधातुभिर्योगे' इति कर्मत्वं शङ्क्यं, तस्य वैकल्पिकतयायास्तत्रैव प्रपञ्चितत्वात्। तत्र अत्रत्यमपि भाष्यं प्रमाणम्।

तत्त्वबोधिनी

622 कुरुचर इति। कुरुषु देशेषु चरति। अटतीत्यर्थः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः अधिकरणे उपपदे । The affix “ट” may be used after the verbal root √चर् (चरँ गत्यर्थ: १. ६४०) when in composition with a पदम् which denotes the locus (of the action.)

उदाहरणम् – निशायां चरतीति निशाचरः (राक्षस:)।

निशा ङि + चर् + ट 3-2-16
Note: The term अधिकरणे (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-16 from the prior सूत्रम् 3-2-15) ends in the seventh (locative) case. Hence “निशा ङि” (which is the locus (अधिकरणम्) of चरति) gets the उपपद-सञ्ज्ञा here by 3-1-92
= निशा ङि + चर् + अ 1-3-7, 1-3-9
= निशा ङि + चर

Now we form the compound between “निशा ङि” (which is the उपपदम्) and “चर” using the सूत्रम् 2-2-19. Note: Here “निशा ङि” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “निशा ङि” is placed in the prior position as per 2-2-30
“निशा ङि + चर” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= निशाचर 2-4-71

In the feminine -

निशायां चरतीति निशाचरी (राक्षसी)।

Example continued under 4-1-15