Table of Contents

<<3-2-17 —- 3-2-19>>

3-2-18 पुरो ऽग्रतो ऽग्रेषु सर्तेः

प्रथमावृत्तिः

TBD.

काशिका

पुरसग्रतसग्रे इत्येतेषु उपपदेषु सर्तेः धातोः टप्रत्ययो भवति। पुरः सरति पुरःसरः। अग्रतःसरः। अग्रेसरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

747 पुरोऽग्रतः। पुरस्, अग्रतस्, अग्रे– एषूपपदेषु सर्तेः टः स्यादित्यर्थः। अग्रेसर इति। ननु समासाऽवयवत्वात्सुपो लुकि अग्रसर इति स्यादित्यत आह– सूत्र इति। कथमिति। एदन्तत्वनिपातनात्कथमग्रसरशब्द इत्यर्थः। समाधत्ते– बाहुलकादिति। पूर्वे कर्तरि। कर्तृशब्दः कर्तृवाचिनि गौणः। तदाह– कर्तृवाचिनीति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.