Table of Contents

<<3-2-165 —- 3-2-167>>

3-2-166 यजजपदशां यङः

प्रथमावृत्तिः

TBD.

काशिका

यजादीनां यङन्तानाम् ऊकः प्रत्ययो भवति तच्छीलादिषु कर्तृषु। यायजूकः। जञ्जपूकः। दन्दशूकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

948 यजजपदशां यङः। यज, जप,दश एषां त्रयाणां द्वन्द्वः। पञ्चम्यर्थे षष्ठी। तदाह– एभ्य इति। तच्छीलादिष्वित्येव। ननु दंशेर्नोपधत्वनात्कथं दशामिति निर्देश इत्यत आह– भाविनेति। ऊके कृतेसति भविष्यतो नलोपस्याऽत्र निर्देश इति यावत्। यायजूक इति। `यस्य हलः' इति यलोपः। `अतो लोपः' `दीर्घोऽकितः' इत्यभ्यासस्य दीर्घः। जञ्जपूक इति। `जपजभदहदशभञ्जपशां चे'त्यभ्यासस्य नुक्। एवं दन्दशूकः।

तत्त्वबोधिनी

779 यजजप। यायजूक इति। यजेर्यङि द्वित्वादि। `दीर्घोऽकितः' इत्यभ्यासदीर्घः। अतो लोपे `यस्य हलः' इति यलोपः। जञ्जपूक इत्यादि। `जपजभदहदशे' त्यादिना नुक्। वावदूकशब्दस्तु `उलूकादयश्चे'त्यत्र वक्ष्यते। माधवस्त्वाह– कुर्वादिगणे वावदूक इति पाठादेव यङन्ताद्वदेरूकप्रत्यय इति।

Satishji's सूत्र-सूचिः

TBD.