Table of Contents

<<3-2-164 —- 3-2-166>>

3-2-165 जागुरूकः

प्रथमावृत्तिः

TBD.

काशिका

जागर्तेः ऊकः प्रत्ययो भवति तच्छीलादिषु कर्तृषु। जागरूकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

947 जागुरूकः। `जागृ' इत्यस्य जागुरित पञ्चम्यन्तं पदम्। तदाह– जागर्तेरिति। तच्छीलादिष्वित्येव। जागरूक इति। ऋकारस्य गुणः, रपरत्वम्। सिद्धरूपं तु न निपातितम्, उत्तरसूत्रे ऊक इत्यननुवृत्तिप्रसङ्गात्।

तत्त्वबोधिनी

778 जागरूकः। `जागु'रिति पञ्चम्यन्तं। तद्व्याचष्टे– जागर्तेरिति। जागरूक इति सिद्धरूपमेव न तु निपातितम, उत्तरसूत्रे ऊकस्याऽननुवृत्तिप्रसङ्गात्।

Satishji's सूत्र-सूचिः

TBD.