Table of Contents

<<3-2-160 —- 3-2-162>>

3-2-161 भञ्जभासमिदो घुरच्

प्रथमावृत्तिः

TBD.

काशिका

भञ्ज भास मिद इत्येतेभ्यो घुरच् प्रत्ययो भवति तच्छीलादिषु कर्तृषु भङ्गुरं काष्ठम्। घित्वात कुत्वम्। भासुरं ज्योतिः। मेदुरः पशुः। भञ्जेः कर्मकर्तरि प्रत्ययः स्वभावात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

943 भञ्जभास। भञ्ज, भास, मिद्, एषां द्वन्द्वात्पञ्चमी। एभ्यो घुरच् स्#आत्तच्छीलादिष्वित्यर्थः। घचावितौ। भङ्गुर इति। `चजो'रिति कुत्वम्।

तत्त्वबोधिनी

775 भङ्गुर इति। `चजो'रिति कुत्वम्। अभिधानस्वभावाद्भञ्जेः कर्मकर्तर्येवेत्याहुः।

Satishji's सूत्र-सूचिः

TBD.