Table of Contents

<<3-2-14 —- 3-2-16>>

3-2-15 अधिकरणे शेतेः

प्रथमावृत्तिः

TBD.

काशिका

सुपि इति सम्बध्यते। शेतेर् धातोरधिकरणे सुबन्त उपपदे अच् प्रत्ययो भवति। खे शेते खशयः। गर्तशयः। पार्श्वादिषु उपसङ्ख्यानम्। पार्श्वाभ्यां शेते पार्श्वशयः। उदरशयः। पृष्ठशयः। दिग्धसहपूर्वाच् च। दिग्धेन सह शेते दिग्धसहशयः। उत्तानादिषु कर्तृषु। उत्तानः शेते उत्तानशयः। अवमूर्धा शेते अवमूर्धशयः। गिरौ डश्छन्दसि। गिरौ शेते गिरिशः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

752 हरतेर्दृतिनाथयोः। दृतिः चर्मभस्त्रिका। दृतिहरिः \उfffदाआ इति वृत्तिः। `नाथ' शब्दस्य विवरणम्–नासारज्जुमिति। नासिकाप्रोतरज्जुमित्यर्थः। नाथहरिरिति। नासिकाप्रोतरज्जुके पशुविशेषे रूढोऽयम्।

तत्त्वबोधिनी

621 * पार्\उfffदाआदिषूपसङ्ख्यानम्। पार्\उfffदाआभ्यामित्यादिना।

Satishji's सूत्र-सूचिः

TBD.