TBD.
जुप्रघृतिभ्यो धतुभ्यो युच् प्रत्ययो भवति तच्छीलादिषु कर्तृषु। जु इति सौत्रो धतुः। जवनः। चङ्क्रमणः। दन्द्रमणः। सरणः। गर्धनः। ज्वलनः। शोचनः। लषणः। पतनः। पदनः। चलनार्थानां पदेश्च ग्रहणं सकर्मकार्थम् इह। ज्ञापनार्थं च पदिग्रहणम् अन्ये वर्णयन्ति, ताच्छीलिकेषु मिथो वा असरूपविधिर् न अस्ति इति। तेन अलङ्कृञः तृन् न भवति अलङ्कर्ता इति। तथा हि पदेरुकञा विशेषविहितेन सामान्यविहितस्य युचो ऽसरूपत्वात् समावेशो भवेदेव, किम् अनेन विधानेन? ज्ञापनार्थं पुनर् विधीयते। प्रायिकं च एतद् ज्ञापकम्। क्वचित् समावेश इष्यत एव, गन्ता खेटं विकत्थनः।
TBD.
–
932 जुचङ्क्रम्य। जु, चङ्क्रम्य, दन्द्रस्य, सृ, गृधि, ज्वल, शुच, लष, पत, पद एषां दशानां द्वन्द्वात्पञ्चमी। एभ्यस्तच्छीलादिषु युच् स्यादित्यर्थः। धातुपाठे जुधातोरदर्शनादाह– सौत्र इति। चङ्क्रमण इति। यङन्ताद्युच्। `यस्य हलः' इति यकारलोपः, अतो लोपः। एवं दन्द्रमणः, सरणः, गद्र्धनः, ज्वलनः, शोचनः, लषणः, पतनः, पदन इत्यप्युदाहार्यम्। पूर्वेणेति। `अनुदात्तेतश्च हलादे'रित्यनेनेत्यर्थः। तेनेति। उकञ् ह्रयं तच्छीलाधिकारस्थः। तत्र वाऽसरूपविधिनैव उकञा `अनुदात्तेतश्च हलादे'रिति विहितस्य पदेर्युचो बाधो न भविष्यतीति `जुचङ्क्रम्ये' ति युज्विधिरनर्थकः स्यादतस्तातच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति विज्ञायते इत्यर्थः। `निन्दहिंसे'ति सूत्रे `तच्छीलादिषु वासरूपविधिना तृजादयो ने'ति ज्ञापितम्। इह तु `ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्ती'ति ज्ञाप्यते इति न पौनरुक्त्यम्। तृन्नेति। अलम्पूर्वात्कृञोऽलङ्कृञित्यादिसूत्रविहितेन तच्छीलाधिकारस्थेन इष्णुचा `तृ'न्निति सामन्यविहितस्तच्चीलाधिकारस्थो बाध्यते इत्यर्थः।
766 जुचङ्क्रम्य। क्रमिद्रमी यङन्तौ। क्रमु पादविक्षेपे, द्रम हम्म मीमृ गतौ। पूर्वेणेति। `अनुदात्तेतश्चे' त्यनेन। इह `पदिग्रहणं सकर्मकार्थ' मिति वृत्तिकृतोक्तम्। भाष्ये तु अनभिधानादेव सकर्मकान्न भविष्यतीत्युक्तत्वात्। ज्ञापनार्थमेव तदित्याशयेनाह— बाधा माभूदित्यादि। परस्परमिति। निन्दादिसूत्रे हि तच्चीलादिषु वासरूपविधिना तृजादयो नेति ज्ञापितम्, इह तु `ताच्छीलिकेषु परस्परं ने'ति ज्ञापितमिति विवेक इति भावः।
TBD.