Table of Contents

<<3-2-148 —- 3-2-150>>

3-2-149 अनुदात्तैतश् च हलादेः

प्रथमावृत्तिः

TBD.

काशिका

अनुदात्तेद् यो धतुः हलादिरकर्मकः, ततश्च युच् प्रत्ययो भवति। वर्तनः। वर्धनः। अनुदात्तेतः इति किम्? भविता। हलदेः इति किम्? एधिता। आदिग्रहनं किम्? जुगुप्सनः। मीमांसनः। अकर्मकातित्येव, वसिता वस्त्रम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

931 अनुदात्तेतश्च। आदिग्रहणाऽभावे हलन्तादित्यर्थः स्यात्, ततश्च जुगुप्सन इति न स्यात्, सन्नन्तस्य हलन्तत्वाऽभावात्। अस्ति चाऽनुदात्तेत्वं सन्नन्तस्य, `गुप' इत्यनुदात्तेत्त्वस्य केवले प्रयोजनाऽभावेन सन्नन्तार्थत्वात्।

तत्त्वबोधिनी

765 अनुदात्तेश्च हलादेः। ननु सर्वोऽप्यनुदात्तेद्धलन्त एवेति तदन्तविधं बाधित्वा सामथ्र्याद्धलादरेव ग्रहीष्यते, तत्किमादिग्रहणेनेति चेत्। अत्राहुः- - आदिग्रहणाऽभावे हलन्ताष्वचरितार्थस्याऽनुबन्धस्य समुदायविसेषकत्वादिति दिक्।

Satishji's सूत्र-सूचिः

TBD.