Table of Contents

<<3-2-147 —- 3-2-149>>

3-2-148 चलनशब्दार्थादकर्मकाद् युच्

प्रथमावृत्तिः

TBD.

काशिका

चलनार्थेभ्यः शब्दार्थेभ्यश्च अकर्मकेभ्यो धातुभ्यस् तच्छीलादिषु कर्तृषु युच् प्रत्ययो भवति। चलनः। चोपनः। शब्दार्थभ्यः शब्दनः। रवणः। अकर्मकातिति किम्? पठिता विद्याम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

930 चलन। शब्दन इति। `शब्द शब्दने' चुरादिः। शब्दनं - शब्दोच्चारणम्। धात्वर्थोपसङ्ग्रहादकर्मकः।

तत्त्वबोधिनी

764 चलनशब्दार्था। चल कम्पने, चुप मन्दायां गतौ, कपि चलने,शब्द शब्दने चुरादिः, रु शब्दे। चलन इत्यादि। `युवो'रित्यनादेशः।

Satishji's सूत्र-सूचिः

TBD.