Table of Contents

<<3-2-147 —- 3-2-149>>

3-2-148 चलनशब्दार्थादकर्मकाद् युच्

प्रथमावृत्तिः

TBD.

काशिका

चलनार्थेभ्यः शब्दार्थेभ्यश्च अकर्मकेभ्यो धातुभ्यस् तच्छीलादिषु कर्तृषु युच् प्रत्ययो भवति। चलनः। चोपनः। शब्दार्थभ्यः शब्दनः। रवणः। अकर्मकातिति किम्? पठिता विद्याम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

930 चलन। शब्दन इति। `शब्द शब्दने' चुरादिः। शब्दनं - शब्दोच्चारणम्। धात्वर्थोपसङ्ग्रहादकर्मकः।

तत्त्वबोधिनी

764 चलनशब्दार्था। चल कम्पने, चुप मन्दायां गतौ, कपि चलने,शब्द शब्दने चुरादिः, रु शब्दे। चलन इत्यादि। `युवो'रित्यनादेशः।

Satishji's सूत्र-सूचिः

TBD.